|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.76. अध्यायः 076
Mahabharata - Sabha Parva - Chapter Topics
शकुनिना दुर्योधनस्य चिन्तया कार्श्यादिकं बोधितेन धृतराष्ट्रेण दुर्योधनम् प्रति चिन्ताकारणप्रश्नः॥ 1॥ दुर्योधनेन तत्कथनपुर्वकं धृतराष्ट्रं प्रति द्यूताभ्यनुज्ञानप्रार्थनम्॥ 2॥ धृतराष्ट्रेण द्यूतसभानिर्माणाज्ञापनपूर्वकं पाण्डवानयनाय विदुरं प्रति चोद नम्॥ 3॥
Mahabharata - Sabha Parva - Chapter Text
वैशम्पायन उवाच॥
अनुभूय तु राज्ञस्तं राजसूयं सुदुर्मतिः।
`युधिष्ठिरस्य शकुनिर्दुर्योधसुसंयुतः॥ 2-76-1(14295)
विवेश हास्तिनपुरं दुर्योधनमतेन सः।
वाढमित्येव शकुनिर्दृढं हृदि चकार ह॥ 2-76-2(14296)
अस्वस्थतां चतां दृष्ट्वा धार्तराष्ट्रस्य पापकृत्।
भारतानां च दुष्टात्मा क्षयाय हि नृपक्षयः'॥ 2-76-3(14297)
प्रियकृन्मतमाज्ञाय पूर्वं दुर्योधनस्य तत्।
प्रज्ञाचक्षुषमासीनं शकुनिः सौबलस्तदा॥ 2-76-4(14298)
दुर्योधनवचः श्रुत्वा धृतराष्ट्रं जनाधिपम्।
उपगम्य महाप्राज्ञं शकुनिर्वाक्यमब्रवीत्॥ 2-76-5(14299)
शकुनिरुवाच। 2-76-6x(1519)
दुर्योधनो महाराज विवर्णो हरिणः कृशः।
दीनश्चिन्तापरश्चैव तं विद्धि मनुजाधिप॥ 2-76-6(14300)
न वै परीक्षसे सम्यगसह्यं शत्रुसंभवम्।
ज्येष्ठपुत्रस्य हृच्छोकं किमर्थं नावबुध्यसे॥ 2-76-7(14301)
`एवमुक्तः शकुनिना धृतराष्ट्रो जनेश्वरः।
दुर्योधनं समाहूयं इदं वचनमब्रवीत्'॥ 2-76-8(14302)
धृतराष्ट्र उवाच। 2-76-9x(1520)
दुर्योधन कृतोमूलं भृशमार्तोऽसि पुत्रक।
श्रोतव्यश्चेन्मया सोऽर्थो ब्रूहि मे कुरुनन्दन॥ 2-76-9(14303)
अयं त्वां शकुनिः प्राह विवर्णं हरिमं कृशम्।
चिन्तयंश्च न पश्यामि शोकस्य तव सम्भवम्॥ 2-76-10(14304)
ऐश्वर्यं हि महत्पुत्र त्वयि सर्वं प्रतिष्ठितम्।
भ्रातरः सुहृदश्चैव नाचरन्ति तवाप्रियम्॥ 2-76-11(14305)
आच्छादयसि प्रावारानश्नासि पिशितौदनम्।
आजानेया वहन्त्यश्वाः केनासि हरिणः कृशः॥ 2-76-12(14306)
शयनानि महार्हाणि योषितश्च मनोरमाः।
गुणवन्ति च वेश्मानि विहाराश्च यथासुखम्॥ 2-76-13(14307)
देवनामिव ते सर्वं वाचि बद्धं न संशयः।
स दीन इव दुर्धर्ष कस्माच्छोचसि पुत्रक॥ 2-76-14(14308)
`मात्रा पित्रा च पुत्रस्य यद्वै कार्यं परं स्मृतम्।
प्राप्तस्त्वमसि तत्तात निखिलां नः कुलश्रियम्॥ 2-76-15(14309)
उपस्थितः सर्वकामैस्त्रिदिवे वासवो यथा।
विविधैरन्नपानैश्च प्रवरैः किं नु शोचसि॥ 2-76-16(14310)
निरुक्तं निगमं छन्दः षडङ्गान्यस्त्रशास्त्रवान्।
अधीती कृतविद्यस्त्वं दशव्याकरणैः कृपात्॥ 2-76-17(14311)
हलायुधात्कृपाद्द्रोणादस्त्रविद्यामधीतवान्।
भ्राताज्येष्ठः स्थितो राज्ये किमु शोचसि पुत्रक॥ 2-76-18(14312)
पृथग्जनैरलभ्यं यदशनाच्छादनं बहु।
प्रभुः सन्भुञ्जसे पुत्र संस्तुतः सूतमागधैः॥ 2-76-19(14313)
तस्य ते विदितप्रज्ञ शोकमूलमिदं कथम्।
लोकेस्मिञ्ज्येष्ठभागन्यस्तन्ममाचक्ष्व पृच्छतः॥ 2-76-20(14314)
वैशम्पायन उवाच॥ 2-76-21x(1521)
तस्य तद्वचनं श्रुत्वा मन्दः क्रोधवशानुगः।
पितरं प्रत्युवाचेदं स्वमतिं सम्प्रकाशयन् '॥ 2-76-21(14315)
दुर्योधन उवाच॥ 2-76-22x(1522)
अश्नाम्याच्छादये चाहं यथा कुपुरुषस्तथा।
अमर्षं धारये चोग्रं निनीषुः कालपर्ययम्॥ 2-76-22(14316)
अमर्षणः स्वाः प्रकृतीरभिभूय परं स्थितः।
क्लेशान्मुमुक्षुः परजान्स वै पुरुष उच्यते॥ 2-76-23(14317)
सन्तोषो वै श्रियं हन्ति ह्यभिमानं च भारत।
अनुक्रोशभये चोभे यैर्वृतो नाश्नुते महत्॥ 2-76-24(14318)
न मां प्रीणाति मद्भुक्तं श्रियं दृष्ट्वा युधिष्ठेरे।
अतिज्वलन्तीं कौन्तेये विवर्णकरणीं मम॥ 2-76-25(14319)
सपत्नानृद्व्यतोत्मानं हीयमानं निशाम्य च।
अदृश्यामपि कौन्तेय श्रियं पश्यन्निवोद्यताम्॥ 2-76-26(14320)
तस्मादहं विवर्णश्च दीनश्च हरिमः कृशः।
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः॥ 2-76-27(14321)
त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः।
दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम्।
भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने॥ 2-76-28(14322)
कदलीमृगमोकानि कृष्णश्यामारुणानि च।
काम्भोजः प्राहिणोत्तस्मै परार्ध्यानपि कम्बलान्।
गजयोषिद्गवाश्वस्य शतशोऽथ सहस्रशः॥ 2-76-29(14323)
त्रिशतं चोष्ट्रवामीनां शतानि विचरन्त्युत।
राजन्या बलिमादाय समेता हि नृपक्षये॥ 2-76-30(14324)
पृथग्विधानि रत्नान पार्थिवाः पृथिवीपते।
आहरन्क्रतुमुख्येऽस्मिन्कुन्तीपुत्राय भूरिशः॥ 2-76-31(14325)
न क्वचिद्धि मया तादृग्दृष्टपूर्वो न च श्रुतः।
यादृग्धनागमो यज्ञे पाण्डुपुत्रस्य धीमतः॥ 2-76-32(14326)
`असत्यं चेदिदं सर्वं सञ्जयं प्रष्टुमर्हसि'।
अपर्यन्तं धनौघं तं दृष्ट्वा शत्रोरहं नृप।
शर्म नैवाभिगच्छामि चिन्तयानो विशाम्पते॥ 2-76-33(14327)
ब्रह्मणा वाटधानाश्च गोमन्तः शतसङ्घशः।
त्रिखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः॥ 2-76-34(14328)
कमण्डलूनुपादाय जातरूपमयाञ्शुभान्।
त्रैखर्वाः प्रतिवेद्यास्मै लेभिरेऽथ प्रवेशनम्॥ 2-76-35(14329)
यथैव मधु शक्राय धारयन्त्यमरस्त्रियटः।
तदस्मै कांस्यमाहार्षीद्वारुणं कलशोदधिः॥ 2-76-36(14330)
शङ्खप्रवरमादाय वासुदेवोऽभिषिक्तवान्।
शक्यं रुक्मसहस्रस्य बहुरत्नविभूषितम्॥ 2-76-37(14331)
दृष्ट्वा च मम तत्सर्वं ज्वररूपमिवाभवत्।
गृहीत्वा तत्तु गच्छन्ति समुद्रौ पूर्वदक्षिणौ॥ 2-76-38(14332)
तथैव पश्चिमं यान्ति गृहीत्वा भरतर्षभ।
उत्तरं तु न गच्छन्ति विना तात पतत्रिणः।
तत्र गत्वाऽर्जुनो दण्डमाजहारामितं धनम्॥ 2-76-39(14333)
`कृतां बैन्दुसरै रत्नैर्मयेन स्फाटिकच्छदाम्।
अपश्यं नलिनीं पूर्णामुदकस्येव भारत॥ 2-76-40(14334)
उत्कर्षन्तं च वासश्च प्राहसन्मां वृकोदरः।
किङ्कराश्च सभापाला जहसुर्भरतर्षभ॥ 2-76-41(14335)
पित्रोरर्थे विशेषेण प्रावृण्वं तत्र जीवितम्।
तत्र त्म यदि शक्तः स्यां घातयेयं वृकोदरम्॥ 2-76-42(14336)
सपत्नेनापहासो हि स मां दहति भारत॥ 2-76-43(14337)
तत्र स्फाटिकतोयां हि स्फाटिकाम्बुजशोभिताम्।
सभां पुष्करिणीं मत्वा पतितोऽस्मि नराधिप॥ 2-76-44(14338)
तत्र मामहसद्भीमः सह पार्थेन सस्वरम्।
द्रौपदी चसह स्त्रीभिः पातयन्ती मनो मम॥ 2-76-45(14339)
क्लिन्नवस्त्रस्य च जले किङ्करा राजचोदिताः।
ददुर्वासांसि मेऽन्यानि तच्च दुःखतरं मम॥ 2-76-46(14340)
अस्तम्भा इव तिष्ठन्ति स्तम्भा इव सहस्रशः।
सोहं तत्राहतो राजन्स्फटिकाभ्यन्तरे विभो॥ 2-76-47(14341)
अद्वारेण विनिर्गच्छन्द्वारसंस्थानरूपिणा।
अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः॥ 2-76-48(14342)
आमृशन्निव तां दृष्ट्वा मार्गान्तरमुपाविशम्।
इदं द्वारमिदं राजन्नद्वारमिति मां प्रति।
अद्भुतं प्रहसन्वाक्यं बभाषे स वृकोदरः॥ 2-76-49(14343)
स्त्रियश्च तत्र मां दृष्ट्वा जहसुस्तादृशं नृप।
सर्वं हासकरं तेषां सदस्यानां नरर्षभ॥ 2-76-50(14344)
न श्रुतानि न दृष्टानि यानि रत्नान मे क्वचित्।
तानि मे तत्र दृष्टानि तेन तप्तोस्मि दुःखितः॥ 2-76-51(14345)
हुताशनं प्रवेक्ष्यामि प्रवेक्ष्यामि महोदधिम्।
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते'॥ 2-76-52(14346)
इदं चाद्भुतमत्रासीत्तन्मे निगदतः शृणु॥ 2-76-53(14347)
पूर्णे शतसहस्रे तु विप्राणां भुञ्जतां सदा।
स्थापितस्तत्र सञ्ज्ञार्थं शङ्खो ध्मायति नित्यसः॥ 2-76-54(14348)
मुहुर्मुहुः प्रणदतस्तस्य शङ्खस्य भारत।
अनिशं शब्दमश्रौषं ततो रोमाणि मेऽहृषन्॥ 2-76-55(14349)
पार्थिवैर्बहुभिः कीर्णमुपस्थानं दिदृक्षुभिः।
अशोभत महाराज नक्षत्रैर्द्यैरिवामला॥ 2-76-56(14350)
सर्वरत्नान्युपादाय पार्थिवा वै जनेश्वर।
यज्ञे तस्य महाराज पाण्डुपुत्रस्य धीमतः॥ 2-76-57(14351)
वैश्या इव महीपाला द्विजातिपरिवेषकाः।
न सा श्रीर्देवराजस्य यमस्य वरुणस्य च।
गुह्यकाधिपतेर्वापि या श्री राजन्युधिष्ठिरे॥ 2-76-58(14352)
तां दृष्ट्वा पाण्डुपुत्रस्य श्रियं परमिक्रामहम्।
शान्तिं न परिगच्छामि दह्यमानेन चेतसा॥ 2-76-59(14353)
`अप्राप्य पाण्डवैश्वर्यं शमो मम न विद्यते।
अरीन्बाणैः शाययिष्ये शयिष्ये वा हतः परैः॥ 2-76-60(14354)
एतादृशस्य मे किं तु जीवितेन परन्तप।
वर्धन्ते पाण्डवा राजन्वयं हि स्थितवृद्धयः'॥ 2-76-61(14355)
शकुनिरुवाच॥ 2-76-62x(1523)
यामेतामतुलां लक्ष्मीं दृष्टवानसि पाण्डवे।
तस्याटः प्राप्तावुपायं मे शृणु सत्यपराक्रम॥ 2-76-62(14356)
अहमक्षेष्वभिज्ञोऽस्मि पृथिव्यामपि भारत।
हृदयज्ञः पणज्ञश्च विशेषज्ञश्च देवने॥ 2-76-63(14357)
द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम्।
आहूतश्चैष्यति व्यक्तं नित्यमेवाह्वयत्स्वयम्॥ 2-76-64(14358)
नियतं तं विजेष्यामि कृत्वा तु कपटं विभो।
आनयामि समृद्धिं तां दिव्यां चोपाह्वयस्व तम्॥ 2-76-65(14359)
वैशम्पायन उवाच॥ 2-76-66x(1524)
एवमुक्तः शकुनिना राजा दुर्योधनस्ततः।
धृतराष्ट्रमिदं वाक्यमपदान्तरमब्रवीत्॥ 2-76-66(14360)
अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित्।
द्यूतेन पाण्डुपुत्रस्य तदनुज्ञातुमर्हसि॥ 2-76-67(14361)
धृतराष्ट्र उवाच॥ 2-76-68x(1525)
क्षत्ता मन्त्री महाप्राज्ञः स्थितो यस्यास्मि शासने।
तेन सङ्गम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम्॥ 2-76-68(14362)
स हि धर्मं पुरस्कृत्य दीर्घदर्शी परं हितम्।
उभयोटः पक्षयोर्युक्तं वक्ष्यत्यर्थविनिश्चयम्॥ 2-76-69(14363)
दुर्योधन उवाच। 2-76-70x(1526)
निवर्तयिष्यति त्वाऽसौ यदि क्षत्ता समेष्यति।
निवृत्ते त्वयि राजेन्द्र मरिष्येऽहमसंशयम्॥ 2-76-70(14364)
स त्वं मयि मृते राजन्विदुरेण सुखी भव।
भोक्ष्यसे पृथिवीं कृत्स्नां किं मया त्वं करिष्यसि॥ 2-76-71(14365)
वैशम्पायन उवाच॥ 2-7-72x(1527)
आर्तवाक्यं तु तत्तस्य प्रणयोक्तं निशम्य सः।
धृतराष्ट्रोऽब्रवीत्प्रेष्यन्दुर्योधनमते स्थितः॥ 2-76-72(14366)
स्थूणासहस्रैर्बृहतीं शतद्वारां सभां मम।
मनोरमां दर्शनीयामाशु कुर्वन्तुं शिल्पिनः॥ 2-76-73(14367)
ततः संस्तीर्य रत्नैस्तां तक्ष्ण आनाय्य सर्वशः।
सुकृतां सुप्रवेशां च निवेदयत मेऽशनैः॥ 2-76-74(14368)
दूर्योधनस्य शान्त्यर्थमिति निश्चित्य भूमिपः।
धृतराष्ट्रो महाराज प्राहिणोद्विदुराय वै॥ 2-76-75(14369)
अपृष्ट्वा विदुरं स्वस्यन नासीत्कश्चिद्विनिश्चयः।
द्यूते दोषांश्च जानन्स पुत्रस्नेहादकृष्यत॥ 2-76-76(14370)
तच्छ्रुत्वा विदुरो धीमान्कलिद्वारमुपस्थितम्।
विनाशमुखमुत्पन्नं धृतराष्ट्रमुपाद्रवत्॥ 2-76-77(14371)
सोऽभिगम्य महात्मानं भ्राता भ्रातरमग्रजम्।
मूर्ध्ना प्रणम्य चरणाविदं वचनमब्रवीत्॥ 2-76-78(14372)
विदुर उवाच। 2-76-79x(1528)
नाभिनन्दामि ते राजन्व्यवसायमिमं प्रभो।
पुत्रैर्भेदो यथा न स्थाद्द्यूतहेतोस्तथा कुरु॥ 2-76-79(14373)
धृतराष्ट्र उवाच। 2-76-80x(1529)
क्षत्तः पुत्रेषु पुत्रैर्मे कलहो न भविष्यति।
यदि देवाः प्रसादं नः करिष्यन्ति न संशयः॥ 2-76-80(14374)
अशुभं वा शुभं वापि हितं वा यदि वाऽहितम्। 2-76-81(14375)
मयि सन्निहिते द्रोणे भीष्मे त्वयि च भारत।
अनयो दैवविहितो न कथञ्चिद्भविष्यति॥ 2-76-82(14376)
गच्छ त्वं रथमास्थाय हयैर्वातसमैर्जवे।
खाण्डवप्रस्थमद्यैव समानय युधिष्ठिरम्॥ 2-76-83(14377)
न वाच्यो व्यवसायो मे विदुरैतद्ब्रवीमि ते।
दैवमेव परं मन्ये येनैतदुपपद्यते॥ 2-76-84(14378)
इत्युक्तो विदुरो धीमान्नेदमस्तीति चिन्तयन्।
आपगेयं महाप्राज्ञमभ्यगच्छत्सुदुः खितः॥ ॥ 2-76-85(14379)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि षट्सप्ततितमोऽध्यायः॥ 76 ॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-76-9 कुतोमूलं किंमुलम्। कुतइति प्रथमार्थे तसिः॥ 2-76-29 कदलीमृगा हरिणविशेषास्तेषां मोकान्यजिनानि तान्येव कृष्णश्यामारुणानि चित्र वर्णानीत्यर्थः॥ 2-76-34 वाटाः क्षेत्रादिवृत्तयस्तासां धाना अभिनवोद्भेदो येषां ते सस्यादिसम्पन्नक ्षेत्रादिवृत्तिमन्त इत्यर्थः॥ 2-76-37 शैक्यं वरत्रामयं पात्राधारभूतं शिक्यं कावडीति प्रसिद्धं तत्र स्थितं पात् रं शैक्यम्। एतेन सामुद्रय आप उक्ताः॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|